महाभारते द्रौपदी-पात्रस्य सामाजिक-नैतिक-राजनीतिकं विश्लेषणम्
DOI:
https://doi.org/10.64758/88kkjm42Keywords:
महाभारत, न्याय,स्त्रीशक्ति, द्रौपदीAbstract
महाभारतम् भारतीयसंस्कृतेः महत्त्वपूर्णतमः महाकाव्यग्रन्थः अस्ति, यत्र न केवलं युद्धकथा, अपि तु धर्म-अधर्मयोः सूक्ष्मविवेचनम् अपि दृश्यते। अस्मिन् ग्रन्थे द्रौपदी-पात्रं विशेषतया उल्लेखनीयम् अस्ति। सा याज्ञसेनी, पाञ्चाली, कृष्णा इत्यादिभिः नामभिः विख्याता अस्ति। द्रौपदी केवलं पाण्डवानां पत्नी न, किन्तु सा स्त्रीशक्तेः, स्वाभिमानस्य, न्यायस्य च प्रतीकत्वेन प्रतिष्ठिता अस्ति। अस्य लेखस्य उद्देश्यं द्रौपदी-पात्रस्य सामाजिक, नैतिक, तथा राजनैतिकदृष्ट्या सम्यक् विश्लेषणं कर्तुम् अस्ति। लेखे तस्याः व्यक्तित्वस्य विविधाः आयामाः, तस्या भूमिकाया महत्त्वम्, तथा आधुनिकसन्दर्भेषु तस्याः प्रासंगिकता च विवेच्यते।
